हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Raghavendra Kavacham – श्री राघवेन्द्र कवचम्


कवचं श्री राघवेन्द्रस्य यतीन्द्रस्य महात्मनः ।
वक्ष्यामि गुरुवर्यस्य वाञ्छितार्थप्रदायकम् ॥ १ ॥

ऋषिरस्याप्पणाचार्यः छन्दोऽनुष्टुप् प्रकीर्तितम् ।
देवता श्रीराघवेन्द्र गुरुरिष्टार्थसिद्धये ॥ २ ॥

अष्टोत्तरशतं जप्यं भक्तियुक्तेन चेतसा ।
उद्यत्प्रद्योतनद्योत धर्मकूर्मासने स्थितम् ॥ ३ ॥

खद्योखद्योतनद्योत धर्मकूर्मासने स्थितम् ।
धृतकाषायवसनं तुलसीहारवक्षसम् ॥ ४ ॥

दोर्दण्डविलसद्दण्ड कमण्डलविराजितम् ।
अभयज्ञानमुद्राऽक्षमालालोलकराम्बुजम् ॥ ५ ॥

योगीन्द्रवन्द्यपादाब्जं राघवेन्द्र गुरुं भजे ।
शिरो रक्षतु मे नित्यं राघवेन्द्रोऽखिलेष्टदः ॥ ६ ॥

पापाद्रिपाटने वज्रः केशान् रक्षतु मे सदा ।
क्षमासुरगणाधीशो मुखं रक्षतु मे गुरुः ॥ ७ ॥

हरिसेवालब्धसर्वसम्पत्फालं ममावतु ।
देवस्वभावोऽवतु मे दृशौ तत्त्वप्रदर्शकः ॥ ८ ॥

इष्टप्रदाने कल्पद्रुः श्रोत्रे श्रुत्यर्थबोधकः ।
भव्यस्वरूपो मे नासां जिह्वां मेऽवतु भव्यकृत् ॥ ९ ॥

आस्यं रक्षतु मे दुःखतूलसङ्घाग्निचर्यकः ।
सुखधैर्यादिसुगुणो भ्रुवौ मम सदाऽवतु ॥ १० ॥

ओष्ठौ रक्षतु मे सर्वग्रहनिग्रहशक्तिमान् ।
उपप्लवोदधेस्सेतुर्दन्तान् रक्षतु मे सदा ॥ ११ ॥

निरस्तदोषो मे पातु कपोलौ सर्वपालकः ।
निरवद्यमहावेषः कण्ठं मेऽवतु सर्वदा ॥ १२ ॥

कर्णमूले तु प्रत्यर्थिमूकत्वाकरवाङ्मम ।
परवादिजये पातु हस्तौ सत्तत्त्ववादकृत् ॥ १३ ॥ [*बहुवदि*]

करौ रक्षतु मे विद्वत्परिज्ञेयविशेषवान् ।
वाग्वैखरीभव्यशेषजयी वक्षस्थलं मम ॥ १४ ॥

सतीसन्तानसम्पत्तिभक्तिज्ञानादिवृद्धिकृत् ।
स्तनौ रक्षतु मे नित्यं शरीरावद्यहानिकृत् ॥ १५ ॥

पुण्यवर्धनपादाब्जाभिषेकजलसञ्चयः ।
नाभिं रक्षतु मे पार्श्वौ द्युनदीतुल्यसद्गुणः ॥ १६ ॥

पृष्ठं रक्षतु मे नित्यं तापत्रयविनाशकृत् ।
कटिं मे रक्षतु सदा वन्द्या सत्पुत्रदायकः ॥ १७ ॥

जघनं मेऽवतु सदा व्यङ्गस्वङ्गसमृद्धिकृत् ।
गुह्यं रक्षतु मे पापग्रहारिष्टविनाशकृत् ॥ १८ ॥

भक्ताघविध्वंसकरनिजमूर्तिप्रदर्शकः ।
मूर्तिमान्पातु मे रोमं राघवेन्द्रो जगद्गुरुः ॥ १९ ॥

सर्वतन्त्रस्वतन्त्रोऽसौ जानुनी मे सदाऽवतु ।
जङ्घे रक्षतु मे नित्यं श्रीमध्वमतवर्धनः ॥ २० ॥

विजयीन्द्रकराब्जोत्थसुधीन्द्रवरपुत्रकः ।
गुल्फौ श्रीराघवेन्द्रो मे यतिराट् सर्वदाऽवतु ॥ । २१ ॥

पादौ रक्षतु मे सर्वभयहारी कृपानिधिः ।
ज्ञानभक्तिसुपुत्रायुर्यशः श्रीपुण्यवर्धनः ॥ २२ ॥

करपादाङ्गुलीः सर्वा ममावतु जगद्गुरुः ।
प्रतिवादिजयस्वान्तभेदचिह्नादरो गुरुः ॥ २३ ॥

नखानवतु मे सर्वान् सर्वशास्त्रविशारदः ।
अपरोक्षीकृतश्रीशः प्राच्यां दिशि सदाऽवतु ॥ २४ ॥

स दक्षिणे चाऽवतु मां समुपेक्षितभावजः ।
अपेक्षितप्रदाता च प्रतीच्यामवतु प्रभुः ॥ २५ ॥

दयादाक्षिण्यवैराग्यवाक्पाटवमुखाङ्कितः ।
सदोदीच्यामवतु मां शापानुग्रहशक्तिमान् ॥ २६ ॥

निखिलेन्द्रियदोषघ्नो महानुग्रहकृद्गुरुः ।
अधश्चोर्ध्वं चाऽवतु मामष्टाक्षरमनूदितम् ॥ २७ ॥

आत्मात्मीयाघराशिघ्नो मां रक्षतु विदिक्षु च ।
चतुर्णां च पुमर्थानां दाता प्रातः सदाऽवतु ॥ २८ ॥

सङ्ग्रामेऽवतु मां नित्यं तत्त्ववित्सर्वसौख्यकृत् ।
मध्याह्नेऽगम्यमहिमा मां रक्षतु महायशाः ॥ २९ ॥

मृतपोतप्राणदाता सायाह्ने मां सदाऽवतु ।
वेदिस्थपुरुषोज्जीवी निशीथे पातु मां गुरुः ॥ ३० ॥

वह्निस्थमालिकोद्धर्ता वह्नितापात्सदाऽवतु ।
समग्रटीकाव्याख्याता गुरुर्मे विषयेऽवतु ॥ ३१ ॥

कान्तारेऽवतु मां नित्यं भाट्‍ट सङ्ग्रहकृद्गुरुः । [*भाष्य*]
सुधापरिमलोद्धर्ता स्वच्छन्दस्तु सदाऽवतु ॥ ३२ ॥

राजचोरविषव्याधियादोवन्यमृगादिभिः ।
अपस्मारापहर्ता नः शास्त्रवित्सर्वदाऽवतु ॥ ३३ ॥

गतौ सर्वत्र मां पातूपनिषदर्थकृद्गुरुः ।
ऋग्व्याख्यानकृदाचार्यः स्थितौ रक्षतु मां सदा ॥ ३४ ॥ [*चाग्वष्यानकृदाचार्यः*]

मन्त्रालयनिवासी मां जाग्रत्काले सदाऽवतु ।
न्यायमुक्तावलीकर्ता स्वप्ने रक्षतु मां सदा ॥ ३५ ॥

मां पातु चन्द्रिकाव्याख्याकर्ता सुप्तौ हि तत्त्वकृत् ।
सुतन्त्रदीपिकाकर्ता मुक्तौ रक्षतु मां गुरुः ॥ ३६ ॥

गीतार्थसङ्ग्रहकरः सदा रक्षतु मां गुरुः ।
श्रीमध्वमतदुग्धाब्धिचन्द्रोऽवतु सदाऽनघः ॥ ३७ ॥

इति श्रीराघवेन्द्रस्य कवचं पापनाशनम् ।
सर्वव्याधिहरं सद्यः पावनं पुण्यवर्धनम् ॥ ३८ ॥

य इदं पठते नित्यं नियमेन समाहितः ।
अदृष्टिः पूर्णदृष्टिः स्यादेडमूकोऽपि वाक्पतिः ॥ ३९ ॥

पूर्णायुः पूर्णसम्पत्तिभक्तिज्ञानाभिवृद्धिकृत् ।
पीत्वा वारि नरो येन कवचेनाभिमन्त्रितम् ॥ ४० ॥

जहाति कुक्षिगान् रोगान् गुरुवर्यप्रसादतः ।
प्रदक्षिणनमस्कारान् गुरोर्वृन्दावनस्य यः ॥ ४१ ॥

करोति परया भक्त्या तदेतत्कवचं पठन् ।
पङ्गुः कूणिश्च पौगण्डः पूर्णाङ्गो जायते ध्रुवम् ॥ ४२ ॥

शेषाश्च कुष्ठपूर्वाश्च नश्यन्त्यामयराशयः ।
अष्टाक्षरेण मन्त्रेण स्तोत्रेण कवचेन च ॥ ४३ ॥

वृन्दावने सन्निहितमभिषिच्य यथाविधि ।
यन्त्रे मन्त्राक्षराण्यष्टौ विलिख्यात्र प्रतिष्ठितम् ॥ ४४ ॥

षोडशैरुपचारैश्च सम्पूज्य त्रिजगद्गुरुम् ।
अष्टोत्तरशताख्याभिरर्चयेत्कुसुमादिभिः ॥ ४५ ॥

फलैश्च विविधैरेव गुरोरर्चां प्रकुर्वतः ।
नामश्रवणमात्रेण गुरुवर्यप्रसादतः ॥ ४६ ॥

भूतप्रेतपिशाचाद्याः विद्रवन्ति दिशो दश ।
पठेदेतत्त्रिकं नित्यं गुरोर्वृन्दावनान्तिके ॥ ४७ ॥

दीपं सम्योज्य विद्यावान् सभासु विजयी भवेत् ।
राजचोरमहाव्याघ्रसर्पनक्रादिपीडनात् ॥ ४८ ॥

कवचस्य प्रभावेण भयं तस्य न जायते ।
सोमसूर्योपरागादिकाले वृन्दावनान्तिके ॥ ४९ ॥

कवचादित्रिकं पुण्यमप्पणाचार्यदर्शितम् ।
जपेद्यः स धनं पुत्रान् भार्यां च सुमनोरमाम् ॥ ५० ॥

ज्ञानं भक्तिं च वैराग्यं भुक्तिं मुक्तिं च शाश्वतीम् ।
सम्प्राप्य मोदते नित्यं गुरुवर्यप्रसादतः ॥ ५१ ॥

इति श्रीमदप्पणाचार्यविरचितं श्रीराघवेन्द्रकवचं सम्पूर्णम् ।


Sri Raghavendra Stotras – श्री राघवेन्द्र स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.